Wednesday, April 8, 2009

प्राचीनसंस्कृतमहाकाव्यानि

प्रत्येकस्मिन् साहित्ये प्रतिभाशालीनां कवीनां लेखनीतः प्रसूताः कतिचन एतादृशाः मर्मस्पर्शी काव्यानि भवन्ति, येषां प्रेरणां स्वीकृत्य अवान्तरकालीनाः कवयः स्वीयानां काव्यानां सज्जां कुर्वन्ति । एतादृशान् व्यापकप्रभावसम्पन्नकाव्यान् वयम् "उपजीव्यकाव्याः" इति वक्तुं शक्नुमः ।महाकाव्यलेखनं भारतीयसाहित्यपरम्परायाः वैशिष्ट्यम् अस्ति ।संस्कृतसाहित्ये अनेकाः महाकाव्याः प्राप्यन्ते । महाकाव्येषु रामायणमहाभारतौ उपजीव्यौ कथ्येते । अन्येषु प्राचीनमहाकाव्येषु सत्सु कालिदासस्य "रघुवंशमहाकाव्यम्", "कुमारसंभवम्" च ; महाकविभारवेः "किरातार्जुनीयम्" ; माघस्य "शिशुपालवधमहाकाव्यम्" ; कुमारदासस्य "जानकीहरणम्" ; अश्वघोषस्य "बुद्धचरितम्" इत्यादयः ।

श्रीमद्वाल्मीकीयरामायणम्








"रामाय रामभद्राय रामचन्द्राय वेधसे ।


रघुनाथाय नाथाय सीतायाः पतये नमः॥


रामं रामानुजं सीतां भरतं भरतानुजम् ।

सुग्रीवं वायूसूनं च प्रणमामि पुनः पुनः ॥


वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।

वेदः प्राचेतसादासीत् साक्षात् रामायणात्मना॥




"वेदाः यस्य परमतत्त्वस्य वर्णनं कुर्वन्ति तदेव श्रीमन्नरायणतत्त्वं श्रीमद्रामायणे श्रीरामरूपेण निरूपितम् अस्ति ।वेदवेद्यस्य परमपुरुषोत्तमस्य दशरथरूपे अवतारानन्तरं साक्षात्वेदराशिः एव वाल्मीकेः मुखात् श्रीमद्रामायणरूपे प्रकटः अभवत्, आस्तिकानाम् एतादृशी मान्यता चिरकालतः अस्ति, अतः श्रीमद्वाल्मीकीयरामायणस्य प्रतिष्ठा वेदतुल्येव अस्ति । विद्वांसः मन्यन्ते यत् श्रीमद्वाल्मीकीयरामायणम् अस्य भूलोकस्य प्रथमम् काव्यम् कथ्यते, अस्य प्रणेता वाल्मीकि अपि आदिकविनाम्ना प्रसिद्धोस्ति । अयं ग्रंथः सर्वेषां कृते पूजनीयः वर्तते। इयं सूक्ति अपि प्रसिद्धा अस्ति यत् रामायणस्य प्रत्येकम् अक्षरं महापातकस्य नाशकम् अस्ति :- " एकैकमक्षरं पुंसां महापातकनाशनम् ।"







रामायणे इक्ष्वाकुवंशप्रभवस्य मर्यादापुरुषोत्तमस्य श्रीरामस्य चरितं वर्णितम् अस्ति । महाकाव्येऽस्मिन् २४,००० श्लोकाः सन्ति, अतः अयं " चतुर्विंशतिसाहस्त्रीसंहिता " अपि कथ्यते । अत्र ध्यतव्यः अस्ति यत् गायत्रिमन्त्रे अपि चतुर्विंशति अक्षराणि एव सन्ति । अनुष्टुपछन्दस्य प्रथमः प्रयोगः अस्मिन्नेव महाकाव्ये अस्ति । महाकाव्येऽस्मिन् कथा सप्तकाण्डेषु विभक्ता अस्ति ; ते काण्डाः तेषु वर्णि्ताः कथाः च निम्नलिखिताः सन्ति :-




. बालकान्डम् - काण्डेऽस्मिन् रामकथायाः प्रारम्भः अस्ति । अत्र महर्षि वाल्मीकि महर्षिनारदं पृच्छति यत् साम्प्रतम् अस्मिन् लोके कः पुरुषः सर्वगुणसम्प्पनः मरयादपुरुषोत्तमः चास्ति । तस्य प्रश्नस्य उत्तरे महर्षिनारदः वाल्मीकीं संक्षेपेण सम्पूर्णा रामकथा श्रावयति । तदनन्तरं महर्षिवाल्मीकि स्नानार्तं तमसानदीतीरे स्वशिष्येण भरद्वाजेन सह गच्छति ; यत्र वने एकेन किरातेन क्रौञ्चमिथुनादेकः नरक्रौञ्चः हन्यते । तदनन्तरं क्रौञ्च्याः विलापं आर्तनादं च दृष्ट्वा क्रोधेन पीड़या वा कुपितः वाल्मीकिः तस्मै किराताय शापं ददाति :-




" मा निषाद प्रतिष्ठामत्वमगमः शाश्वती समा।

यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥ "


इतः एव श्लोकस्य आविर्भावः अस्ति । पुनः ब्रह्मेक्षया वाल्मीकिः अनुष्टुपछन्दे अस्य महाकाव्यस्य रचनायाः आरम्भं करोति ; ध्यानावस्थायाम् एव सः सर्वाषां घटनानां प्रत्यक्षं करोति ।बालकाण्डे राज्ञः दशरथस्य अयोध्यानगर्याः शोभायाः , सुशासनव्यवस्थायाः , रामादेः जन्मस्य , ताड़कावधस्य , रामविवाहस्य च कथाः वर्णिताः सन्ति । काण्डेऽस्मिन् ७७ सर्गाः सन्ति ।


२. अयोध्याकाण्डम् -
अयोध्याकाण्डे मर्यादापुरुषोत्तमस्य वनवासप्राप्तेः , सीतालक्षमणाभ्यां सह तस्य वनगमनस्य , पुत्रशोकपिहितस्य राजादशरथस्य मृत्योः , अरण्ये भरतस्य रामेण सह मेलनस्य च अतिेकरुणामयीकथाः वर्णिताः सन्ति । अस्मिन् काण्डे १११ सर्गाः सन्ति ।




. अरण्यकाण्डम् - अरण्यकाण्डे रामलक्षमणसीतायाः वनवासस्य , मुनिजनपीड़कानां राक्षसानां संहारस्य , सीताहरणस्य , रावण-जटायुसंवादस्य, सीताहरणात् विषादग्रस्तस्य श्रीरामस्य करुणविलापस्य , कबन्धवधस्य , शबर्याः सत्कारस्य च कथाः वर्णिताः सन्ति । अस्मिन् काण्डे ७५ सर्गाः सन्ति ।




. किष्किन्धाकाण्डम् - अस्मिन् काण्डे हनुमानेन सह श्रीरामस्य मेलनस्य , वानरराजसुग्रीवेन सह मेलनस्य , वालीवधस्य , अङ्गदसुग्रीवयोः अभिषेकस्य , वानरैः सीतायाः अन्वेषणस्य , सम्पातेः कथायाः , जाम्बवानेन हनुमतः प्रेरणस्यादेः च कथाः वर्णिताः सन्ति । अस्मिन् काण्डे ६७ सर्गाः सन्ति ।







५. सुन्दरकाण्डम् - सुन्दरकाण्डे वीरहनुमतः विशालसमुद्रलङ्घणस्य , अशोकवाटिकायां सीतया सह तस्य मेलनस्य , लङ्कादाहस्यादेश्च रमणीयं वर्णनं अस्ति । काण्डेऽस्मिन् ६८ सर्गाः सन्ति।







. युद्धकाण्डम् - युद्धकाण्डे रामसेनायाः युद्धस्य कृते सज्जायाः , सेतुबन्धस्य , विभीषणस्य , राम-रावणयुद्धस्य , रावणवधस्य , सीतायाः अग्निपरीक्षायाः , श्रीरामस्य अयोध्याप्रत्यागमनस्य , राज्याभिषेकस्यादेश्च कथाः वर्णिताः सन्ति ।



७. उत्तरकाण्डम्
- उत्तरकाण्डे श्रीरामदरबारस्य , सभायां ऋषीणाम् आगमनस्य , विश्रवामुनेः कथायाः , रावणस्य जीवनचरितस्य , हनुमतः कथायाः , शत्रुघ्नस्य राज्याभिषेकस्य , लवकुशयोः रामायणगायणस्य , सीतायाः रसातलप्रवेशस्य , श्रीरामस्य उत्तरवर्तीजीवनचर्यायाः , श्रीरामेण सह अयोध्यावासीनां परमधामगमनस्य , रामायणकाव्यस्य महात्म्यस्य च वर्णनम् अस्ति ।"करुण " अस्य महाकाव्यस्य प्रधानरसः अस्ति । रामायणस्य प्राशस्तये अयं श्लोकः निबद्दोस्ति :-




" यस्य शोकात् समुत्पन्नं श्लोकं ब्रह्माभिपूजति ।

विष्णोः पुँसः पुराणस्य मानुषस्यात्मरूपिणः॥ "









महाभारतम्







व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।

भूषणतयैव संज्ञा यदङ्किता भारती वहति ॥ (गोवर्धनाचर्यः)







रामायणं महाभारतञ्च अस्माकं जातीयइतिहासग्रन्थौ स्तः। भारतीयसभ्यतायाः भव्यरूपं एतयोःग्रन्थयोः यादृशः स्फुटति तादृशः नान्यत्रक्वचित् ।कृष्णद्वैपायनमहर्षिवेदव्यासविरचितमहाभारतम् परवर्ती साहित्यकाराणां कृतेउपजीव्यः अस्ति अस्मिन् महाकाव्ये केवलं कौरवपाण्डवयोः इतिहासवर्णनम् अस्ति, अपितु अस्माकं हिन्दुधर्मस्यसम्पूर्णचित्रणं विस्तारपूर्वकम् अत्र कृतम् अस्ति महाकविना वयं एतम् इतिहासग्रंथम् अस्माकं धर्मग्रंथः मन्यामहे , यस्यपठनं-पाठनं , श्रवण-मननं सर्वविध्या अस्माकं कृते कल्याणकारी अस्ति ।अस्य ग्रंथस्य सांस्कृतिकमूल्यम् अपि अल्पतरं नास्ति सत्यं तु इदम् अस्ति यत् केवलम् अनेन ग्रंथेन एव वयं भारतीयसंस्कृत्याः शुद्धस्वरूपस्य परिचयं प्राप्तुं शक्नुमः भारतीयसाहित्यस्य सर्वश्रेष्ठः ग्रंथः "श्रीमद्भागवद्गीता" अस्येव महाभारतग्रंथस्य अंशः मन्यते महत्वपूर्णग्रंथोऽयंभारतीयसाहित्यपरम्परायां पञ्चमवेदनाम्ना प्रसिद्धोस्ति




अस्मिन् ग्रंथे मुख्यतया कौरव-पाण्डवानां कथा वर्णिता अस्ति । ग्रंथो॓ऽयं अष्टादशपर्वेषु विभक्तोस्ति । एतस्य विकासस्य त्रयः क्रमिकस्वरूपाः मन्यन्ते - १. जय , २. भारतम् , ३. महाभारतम् । ग्रंथेऽस्मिन् अनेकाः कथा-उपकथाः , बहूनि आख्यानानि च सन्ति । अस्य परिशिष्टः भागः "हरिवंशम्" इति नाम्ना प्रसिद्धः अस्ति , यस्मिन् त्रयः सर्गाः सन्ति ।महाभारते अष्टादशपर्वेषु एकलक्षश्लोकाः निबद्धाः सन्ति , अतः अयं ग्रंथः शत्-साहस्त्रीसंहिता अपि कथ्यते । तानि पर्वाणि निम्नलिखितानि सन्ति :-




१. आदिपर्व :- आदिपर्वे चन्द्रवंशस्य विस्तृतेतिहासस्य , कौरव-पाण्डानां उत्पत्तेः च वर्णनम् अस्ति


. सभापर्व :- सभापर्वे द्यूतक्रीडायाः प्रसिद्धा कथा वर्णिता अस्ति ।


३. वनपर्व :- वनपर्वे पाण्डानां वनवासस्य कथा अस्ति ।


. विराटपर्व :- विराटपर्वे पाण्डवानाम् अज्ञातवासस्य कथा अस्ति ।

.उद्योगपर्व :- उद्योगपर्वे श्रीकृष्णस्य दूतरूपे कौरवानां सभायां गमनस्य, शांतये उद्योगस्य च कथा वर्णिता अस्ति ।


. भीष्मपर्व :- भीष्मपर्वे गीतायाः नीतिपूर्णः उपदेशः वर्णितः अस्ति ; युद्धस्य आरम्भस्य , भीष्मस्य शरशय्यापतनस्य कथा अपि वर्णिता अस्ति ।

७. द्रोणपर्व :- द्रोणपर्वे अभिमन्युवधस्य, पाण्डवानां द्रोणाचार्येन सह युद्धस्य , द्रोणवधस्य च कथाः वर्णिताः सन्ति ।


. कर्णपर्व :- कर्णपर्वे महारथिकर्णेन सह युद्धस्य , कर्णवधस्य च वर्णनम् अस्ति ।



. शल्यपर्व :- शल्यपर्वे शल्यस्य अध्यक्षतायां युद्धस्य , अन्ते तस्य वधस्य च वर्णनम् अस्ति।


१०.सौप्तिकपर्व :- सौप्तिकपर्वे अश्वत्थामा द्वारा सुसुप्तावस्थायां पान्डवपुत्राणां वधस्य कथा अस्ति ।



११. स्त्रीपर्व :- स्त्रीपर्वे स्त्रीणां विलापस्य करुणचित्रणम् अस्ति ।



१२. शान्तिपर्व:- शान्तिपर्वे भीष्मपितामहस्य युद्धिष्ठिरं प्रति मोक्षधर्मस्य , राजधर्मस्य च नीतिविषयकाः उपदेशाः वर्णिताः सन्ति ।



१३. अनुशासनपर्व :- अनुशासनपर्वे धर्मपूर्णाः नीतिपूर्णाश्च अनेकाः कथाः सन्ति ।



१४. अश्वमेघपर्व :- अश्वमेघपर्वे राज्ञः युद्धिष्ठिरस्य अश्वमेघयज्ञस्य वर्णनम् अस्ति ।



१५. आश्रमवासीपर्व :- आश्रमवासीपर्वे धृटराष्ट्र-गान्धार्यादेः वानप्रस्थाश्रमे प्रवेशस्य कथा अस्ति।



१६. मौसलपर्व :- मौसलपर्वे यदुवंशीनां मूसलेन विनाशस्य कथा वर्णिता अस्ति ।



१७. महाप्रस्थानिकपर्व :- महाप्रस्थानिकपर्वे पाण्डवानां हिमालययात्रायाः कथा अस्ति ।



१८. स्वर्गारोहनपर्व :- स्वर्गारोहनपर्वे पाण्डवानां स्वर्गगमनस्य कथा अस्ति ।




अस्मिन् ग्रंथे सत्यमेव उक्तम् अस्ति यत् :-




" धर्मे चार्थे च मोक्षे च भरतषेभः ।


यदिहास्ति तदन्यत्र यन्नेहास्ति तत् क्वचित॥ "


कालिदासस्य रघुवंशम् कुमारसंभवम् च

लौकिकसंस्कृतसाहित्यस्य कविषु निश्चयेनेव महाकविकालिदासः श्रेष्ठः अन्यतमः च अस्ति । महाकविकालिदासस्य काव्यप्रतिभा सर्वातिशायिनीअस्ति । तस्य काव्यं देववाण्याः श्रृङ्गारः अस्ति । तस्य रचनासु माधुर्यस्य मधुरसन्निवेशः, प्रसादस्य स्निग्धता, पदानां सरसशय्या, अर्थसौष्ठवः, अलङ्कारानांमञ्जुलप्रयोगः, छंदोनां छटा च पदे - पदे दृश्यते । उपमायाः यादृशः चमत्कारः तस्य रचनासु प्राप्यते तादृशः अन्यत्र न क्वचित् ; कथितञ्च :-
" उपमा कालिदासस्य----- " ।महाकवि कालिदासः भारतीयसंस्कृत्याः प्रतिनिधिकविः अस्ति , यस्य पात्राणि भारतीयतायाः भव्यमूर्तयःसन्ति ।





# रघुवंशम् :- आलोचकाः मन्यन्ते यत् " रघुवंशम् " महाकविकालिदासस्य सर्वश्रेष्ठा रचना अस्ति ग्रन्थेऽस्मिन् १९ सर्गाःसन्ति , येषुरघुवंशीराज्ञां जीवनचरितानि वर्णितानि सन्ति रघुजन्मस्य पूर्वपीठिकातः एव काव्यस्य आरम्भः भवति राज्ञःदिलिपस्य गोचारणेन एव रघोः जन्मः भवति ,अन्येषु सर्गेषु रघोः दिग्विजयस्य, अदम्यपराक्रमस्य, अद्भुद्दानशीलतायाश्च वर्णनम्अस्ति तत्पश्चात रघुपुत्रस्य अजस्य इन्दुमत्याः सह विवाहस्य, इन्दुमत्याःअकालमृत्ययोश्च वर्णनम् अस्ति दशमसर्गतःपञ्चदशसर्गपर्यन्तं रामचरितस्य अतीव मनोहारी वर्णनम् अस्ति तत्पश्चात् अग्निवर्णादेः विभिन्नानां राज्ञां चरितानांसंक्षिप्तवर्णनम्अस्ति


# कुमारसंभवम् :- कुमारसंभवमहाकाव्ये महाकविकालिदासेन कुमारस्य कार्तिकेयस्य जन्मस्य कथायाः वर्णनं कृतम् अस्ति।महाकाव्येऽस्मिन् १७ सर्गाः सन्ति । अस्मिन् ग्रन्थे सर्वत्र कवेः लेखण्याः चमत्कारः दृश्यते । तृतीयसर्गे शिवस्य समाधेः वर्णनम् अस्ति, पञ्चमसर्गे पार्वत्याःकठोरतपश्चर्यायाः उदात्तं वर्णनं ओजपूर्णैः शब्दैः कृतम् अस्ति । अष्टमसर्गे रतिवर्णनम् अस्ति ।कैश्चित् विद्वद्भिः अस्य ग्रन्थस्य नवसर्गतः सप्तदशपर्यन्तसर्गाः प्रक्षिप्ताः मन्यन्ते ।

बुद्धचरितमहाकाव्यम्

# बुद्धचरितमहाकाव्यम् :-, बुद्धचरितमहाकव्यम् महाकवेः अश्वघोषस्य कीर्तिस्तम्भम् अस्ति , यत् दुर्भाग्यवशात् मूलरूपेणकेवलम् अर्धमेव प्राप्यते । अस्मिन् महाकाव्ये २८ सर्गाह् सन्ति , परन्तु संस्कृते द्विसर्गतः त्रयोदशसर्गपर्यन्तमेव ग्रन्थः उपलभ्यते । महाकाव्यस्य आरम्भः महात्माबुद्धस्य गर्भाधानसंस्कारतः अस्ति ; ग्रन्थान्ते महात्माबुद्धस्य अस्थिविभाजनात् उत्पन्नस्य कहलस्य, प्रथमसंगीत्याः, अशोकवर्धनस्य
रज्यस्य च प्रसङ्गाः सन्ति ।अस्मिन् काव्ये बुद्धस्य जन्मस्य, अन्तःपुर-विहारस्य, संवेगोत्पत्तेः, स्त्रीनिवारणस्य, अभिनिष्क्रमणस्य, छन्दकविसर्जनस्य, तपोवनप्रवेशस्यअन्तःपुरविलापस्य,
बुद्धत्वप्राप्त्यादेह् कथाः वर्णिताः सन्ति ।-------------------------------------------------------------------------------------------------------------------------------------------

# सौंदरानन्दमहाकाव्यम् :-
सौंदरानन्दमहाकाव्यं निश्चयेन महाकवेः अश्वघोषस्य अतिसुन्दरी स्निग्धाकाव्यरचना अस्ति । अस्य महाकाव्यस्य सरसता
अतीवमनोहारिणी अस्ति । महाकाव्येऽस्मिन् १८ सर्गाः सन्ति । अस्य नायकः महात्माबुद्धस्य सभ्राता सुन्दरनन्दः अस्ति, यःअतीवसुन्दरः रसिकः चास्ति ।महाकाव्येऽस्मिन् सुन्दरनन्दस्य सुन्दरतायाः, तस्य पतिव्रतापत्न्याः सुन्दर्याः, तयोः भोगविलासमयजीवनस्य, बुद्धस्य उपदेशाणां,सुन्दरनन्दस्य गृहत्यागस्य, प्रवज्याग्रहणस्यादेः वर्णनं कृतं वर्तते ।महाकवेः अश्वघोषस्य रचनायां सर्वत्र स्वाविकतायाः साम्राज्यं दृश्यते । तस्य वर्णन्शैली अद्वीतीया अस्ति ।

किरातार्जुनीयम्

किरातार्जुनीयम् :- संस्कृतसाहित्यस्य मूर्धण्येषु कवीषु महाकवि भारावि अपि एकोस्ति । उक्तञ्च:- "भार्वेरर्थगौरवम्-------"

महाकवेः भारवेः अमरकीर्तिः यस्य काव्यस्योपरि अवलम्बितास्ति, तदस्ति सुप्रसिद्धं "किरातार्जुनीयमहाकाव्यम् " यस्याधारः महाभारतस्य कैराताख्यानम् अस्ति ।अस्मिन् महाकाव्ये पाण्डवानां कथा वर्णिता अस्ति । द्यूतक्रीडायां पराजयोपरान्त युधिष्ठिरः वने निवसति स्म । ततः सः दुर्योधनस्य शासनव्यवस्था द्रष्टुं एकं वनचरं प्रेषितवान् । वनेचरः तत्र सर्वाः सूचनाः स्वीकृत्य प्रत्यागतवान् । सः युधिष्ठराय दुर्योधनस्य सुव्यवस्थितायाःशासनव्यवस्थायाः सूचनां दत्तवान् ।तदनन्तरं महर्षिवेदव्यासस्य तत्रागमनम् अभवत् । सः अर्जुनं पाशुपतास्त्रप्राप्त्यर्थं इन्द्रकीलपर्वतस्योपरि तपश्चर्याय प्रेषितवान् । अर्जुनेन तत्र गत्वा कठिनः तपः कृतः। तत्र इन्द्रस्य आगमम् अभवत्, सः अर्जुनं शिवोपासनाय प्रेरितवान् ।अर्जुनेन इतोपि दत्तचित्तभूत्वा शिवाराधना कृता ।तदनन्तरम् स्वयमेव किरातवेशीभगवता शिवेन अर्जुनस्य परीक्षा नीता । अन्ततोगत्वा शिवः अर्जुनस्य उपरि प्रस्सनं भूत्वा तस्मै पाशुपतास्त्र प्रदत्तवान् ।किरातार्जुनीयस्य १८ सर्गेषु उपरोक्ता कथा वर्णिता अस्ति । मध्ये - मध्ये महाकविना ऋतोः, पर्वतस्य, सूर्यास्तस्य, प्रकृत्याः, जलक्रीड़ायाः, सरोवरस्यादेः अपि अतिमनोहरं वर्णनं कृतम् अस्ति । अस्य महाकाव्यस्य प्रधानरसः "वीररसः" अस्ति; श्रृंङ्गारादयः अङ्गीरसाः सन्ति ।

रावणवधमहाकाव्यम् ( भट्टिकाव्यम् )

# रावणवधमहाकाव्यम् (भट्टिकाव्यम्) :- भट्टिस्वामेः प्रसिद्धारचना रावणवधमहाकाव्यम् २० सर्गेषु निबद्धम् अस्ति । अस्मिन् महाकाव्ये ३६२४ पद्यानां मनोहरः सन्निवेशः अस्ति । महाकाव्येऽस्मिन् मर्यादापुरुषोत्तमस्य श्रीरामस्य जीवनघटनानां वर्णनम् अस्ति । अस्य महाकाव्यस्य महान् उद्देश्यः अयमासीत् यत्
मनोरञ्जनेन सह व्याकरणशास्त्रस्य ज्ञानम् अपि भवेत् । अस्य शैली अतिविशिष्टा सरला चास्ति। महाकाव्यमिदं भट्टिकाव्यनाम्ना प्रसिद्धम् अस्ति ।

जानकीहरणम्

# जानकीहरणम् :- जानकीहरणम् महाकविकुमारदसस्य एकमात्ररचना अस्ति । अस्मिन् महाकाव्ये २० सर्गाः सन्ति । अस्य महाकाव्यस्य कथा रामायणीकथायाः
उपरि आधारिता अस्ति । अस्मिन् महाकाव्ये राजादशरथस्य, तस्य राज्ञीनां, अयोध्यानगर्याः, रावणस्य चरित्रस्य, रामादेः जन्मस्य, वनवासस्य, जानकीहरणस्य,
बालिवधस्य, लङ्कादाहस्य, राम-रावणसंग्रामस्य, रामविजयस्य च प्रसङ्गाः वर्णिताः सन्ति ।

शिशुपालवधमहाकाव्यम्

# शिशुपालवधम् :- महाकविमाघः संस्कृतसाहित्याकाशस्य दैदीप्यमानेषु नक्षत्रेषु अन्यतमोस्ति। संस्कृतसाहित्यजगतिइयम् उक्तिः अतिप्रसिद्धा अस्ति यत् :-

" उपमा कालिदासस्य भारवेरर्थगौरवम्

दण्डिनः पदलालित्यं माघे सन्ति त्रयोगुणाः॥

माघस्य कीर्तिलता एकस्येव शिशुपालवधमहाकाव्यस्योपरि अवलम्बितास्ति अस्य महाकाव्यस्य प्रेरणास्त्रोते श्रीमद्भगवद्गीतामहाभारतञ्च स्तः अस्मिन् महाकाव्ये
२० सर्गाः सन्ति येषु १६५० श्लोकाः निबद्धाः सन्ति महाकाव्येऽस्मिन् श्रीकृष्णेन युधिष्ठिरस्य राजसूययज्ञेचेदिनरेशशिशुपालस्य वधस्य कथा वर्णिता अस्ति
अलङ्कृतमहाकाव्यस्य एषा महनीयादर्शपरिकल्पना महाकविमाघस्य संस्कृतसाहित्याय अविस्मरणीयं योगदानम् अस्ति , यस्यअनुसरणं, परिबृंहणं कृत्वा
अस्माकं काव्यसाहित्यः समृद्धः, संपन्नः, सुसंस्कृतश्च अभवत् ।




संदर्भ-सूची

१. संस्कृत साहित्य का इतिहास : आचार्य बलदेव उपाध्याय


२. संस्कृत साहित्य का समीक्षात्मक इतिहास : डा० वाचस्पति गैरोला
प्रकाशक : चौखम्बा विद्याभवन , वाराणसी ।
३. संस्कृत साहित्य का इतिहास : प्रो० उमाशङ्करशर्मा ’ऋषिः’ ।
प्रकाशक : चौखम्बा ओरियेण्टेलिया , वाराणसी ।
४. श्रीमद्वाल्मीकीय रामायण ( खंड १ एवम् २ )
प्रकाशक : गीता प्रेस, गोरखपुर ।



related web-links

१. www.urday.in/mahabharata.htm
२. en.wikipedia.org/wiki/Indian_epic_poetry
३. www.encyclopedia.com/topic/Sanskrit_literature.a...
४. www.ancientindia.co.uk/staff/resources/backgroun...
५. www.britannica.com/EBchecked/topic/189625/epic