Wednesday, April 8, 2009

कालिदासस्य रघुवंशम् कुमारसंभवम् च

लौकिकसंस्कृतसाहित्यस्य कविषु निश्चयेनेव महाकविकालिदासः श्रेष्ठः अन्यतमः च अस्ति । महाकविकालिदासस्य काव्यप्रतिभा सर्वातिशायिनीअस्ति । तस्य काव्यं देववाण्याः श्रृङ्गारः अस्ति । तस्य रचनासु माधुर्यस्य मधुरसन्निवेशः, प्रसादस्य स्निग्धता, पदानां सरसशय्या, अर्थसौष्ठवः, अलङ्कारानांमञ्जुलप्रयोगः, छंदोनां छटा च पदे - पदे दृश्यते । उपमायाः यादृशः चमत्कारः तस्य रचनासु प्राप्यते तादृशः अन्यत्र न क्वचित् ; कथितञ्च :-
" उपमा कालिदासस्य----- " ।महाकवि कालिदासः भारतीयसंस्कृत्याः प्रतिनिधिकविः अस्ति , यस्य पात्राणि भारतीयतायाः भव्यमूर्तयःसन्ति ।





# रघुवंशम् :- आलोचकाः मन्यन्ते यत् " रघुवंशम् " महाकविकालिदासस्य सर्वश्रेष्ठा रचना अस्ति ग्रन्थेऽस्मिन् १९ सर्गाःसन्ति , येषुरघुवंशीराज्ञां जीवनचरितानि वर्णितानि सन्ति रघुजन्मस्य पूर्वपीठिकातः एव काव्यस्य आरम्भः भवति राज्ञःदिलिपस्य गोचारणेन एव रघोः जन्मः भवति ,अन्येषु सर्गेषु रघोः दिग्विजयस्य, अदम्यपराक्रमस्य, अद्भुद्दानशीलतायाश्च वर्णनम्अस्ति तत्पश्चात रघुपुत्रस्य अजस्य इन्दुमत्याः सह विवाहस्य, इन्दुमत्याःअकालमृत्ययोश्च वर्णनम् अस्ति दशमसर्गतःपञ्चदशसर्गपर्यन्तं रामचरितस्य अतीव मनोहारी वर्णनम् अस्ति तत्पश्चात् अग्निवर्णादेः विभिन्नानां राज्ञां चरितानांसंक्षिप्तवर्णनम्अस्ति


# कुमारसंभवम् :- कुमारसंभवमहाकाव्ये महाकविकालिदासेन कुमारस्य कार्तिकेयस्य जन्मस्य कथायाः वर्णनं कृतम् अस्ति।महाकाव्येऽस्मिन् १७ सर्गाः सन्ति । अस्मिन् ग्रन्थे सर्वत्र कवेः लेखण्याः चमत्कारः दृश्यते । तृतीयसर्गे शिवस्य समाधेः वर्णनम् अस्ति, पञ्चमसर्गे पार्वत्याःकठोरतपश्चर्यायाः उदात्तं वर्णनं ओजपूर्णैः शब्दैः कृतम् अस्ति । अष्टमसर्गे रतिवर्णनम् अस्ति ।कैश्चित् विद्वद्भिः अस्य ग्रन्थस्य नवसर्गतः सप्तदशपर्यन्तसर्गाः प्रक्षिप्ताः मन्यन्ते ।

No comments:

Post a Comment