Wednesday, April 8, 2009

किरातार्जुनीयम्

किरातार्जुनीयम् :- संस्कृतसाहित्यस्य मूर्धण्येषु कवीषु महाकवि भारावि अपि एकोस्ति । उक्तञ्च:- "भार्वेरर्थगौरवम्-------"

महाकवेः भारवेः अमरकीर्तिः यस्य काव्यस्योपरि अवलम्बितास्ति, तदस्ति सुप्रसिद्धं "किरातार्जुनीयमहाकाव्यम् " यस्याधारः महाभारतस्य कैराताख्यानम् अस्ति ।अस्मिन् महाकाव्ये पाण्डवानां कथा वर्णिता अस्ति । द्यूतक्रीडायां पराजयोपरान्त युधिष्ठिरः वने निवसति स्म । ततः सः दुर्योधनस्य शासनव्यवस्था द्रष्टुं एकं वनचरं प्रेषितवान् । वनेचरः तत्र सर्वाः सूचनाः स्वीकृत्य प्रत्यागतवान् । सः युधिष्ठराय दुर्योधनस्य सुव्यवस्थितायाःशासनव्यवस्थायाः सूचनां दत्तवान् ।तदनन्तरं महर्षिवेदव्यासस्य तत्रागमनम् अभवत् । सः अर्जुनं पाशुपतास्त्रप्राप्त्यर्थं इन्द्रकीलपर्वतस्योपरि तपश्चर्याय प्रेषितवान् । अर्जुनेन तत्र गत्वा कठिनः तपः कृतः। तत्र इन्द्रस्य आगमम् अभवत्, सः अर्जुनं शिवोपासनाय प्रेरितवान् ।अर्जुनेन इतोपि दत्तचित्तभूत्वा शिवाराधना कृता ।तदनन्तरम् स्वयमेव किरातवेशीभगवता शिवेन अर्जुनस्य परीक्षा नीता । अन्ततोगत्वा शिवः अर्जुनस्य उपरि प्रस्सनं भूत्वा तस्मै पाशुपतास्त्र प्रदत्तवान् ।किरातार्जुनीयस्य १८ सर्गेषु उपरोक्ता कथा वर्णिता अस्ति । मध्ये - मध्ये महाकविना ऋतोः, पर्वतस्य, सूर्यास्तस्य, प्रकृत्याः, जलक्रीड़ायाः, सरोवरस्यादेः अपि अतिमनोहरं वर्णनं कृतम् अस्ति । अस्य महाकाव्यस्य प्रधानरसः "वीररसः" अस्ति; श्रृंङ्गारादयः अङ्गीरसाः सन्ति ।

No comments:

Post a Comment