Wednesday, April 8, 2009

प्राचीनसंस्कृतमहाकाव्यानि

प्रत्येकस्मिन् साहित्ये प्रतिभाशालीनां कवीनां लेखनीतः प्रसूताः कतिचन एतादृशाः मर्मस्पर्शी काव्यानि भवन्ति, येषां प्रेरणां स्वीकृत्य अवान्तरकालीनाः कवयः स्वीयानां काव्यानां सज्जां कुर्वन्ति । एतादृशान् व्यापकप्रभावसम्पन्नकाव्यान् वयम् "उपजीव्यकाव्याः" इति वक्तुं शक्नुमः ।महाकाव्यलेखनं भारतीयसाहित्यपरम्परायाः वैशिष्ट्यम् अस्ति ।संस्कृतसाहित्ये अनेकाः महाकाव्याः प्राप्यन्ते । महाकाव्येषु रामायणमहाभारतौ उपजीव्यौ कथ्येते । अन्येषु प्राचीनमहाकाव्येषु सत्सु कालिदासस्य "रघुवंशमहाकाव्यम्", "कुमारसंभवम्" च ; महाकविभारवेः "किरातार्जुनीयम्" ; माघस्य "शिशुपालवधमहाकाव्यम्" ; कुमारदासस्य "जानकीहरणम्" ; अश्वघोषस्य "बुद्धचरितम्" इत्यादयः ।

2 comments:

  1. भवान् अतिमहत्वपूर्णं कार्यं करोति।

    ReplyDelete
  2. उत्तमं कार्यं कृतवान् भवान् । तदर्थं धन्यवादाः ।
    प्रतिभाशालीनां -प्रतिभाशलिनाम् इति
    प्रसूताः कतिचन एतादृशाः मर्मस्पर्शी -प्रसूतानि कतिचन एतादृशानि मर्मस्पर्शानि
    एतादृशान् व्यापकप्रभावसम्पन्नकाव्यान् -एतादृशानि व्यापकप्रभावसम्पन्नकाव्यानि
    अनेकाः महाकाव्याः-अनेकानि महाकाव्यानि
    रामायणमहाभारतौ उपजीव्यौ -रामायणमहाभारते उपजीव्ये कथ्येते
    इत्यादीनि प्रसिद्धानि ।
    एवं दोषाः मार्जयित्वा लिखतु कृपया । संस्कृते विशेषणं विशेष्यं तथा लिङ्गवचनानि अनुसरनीयानि खलु ।

    ReplyDelete