Wednesday, April 8, 2009

श्रीमद्वाल्मीकीयरामायणम्








"रामाय रामभद्राय रामचन्द्राय वेधसे ।


रघुनाथाय नाथाय सीतायाः पतये नमः॥


रामं रामानुजं सीतां भरतं भरतानुजम् ।

सुग्रीवं वायूसूनं च प्रणमामि पुनः पुनः ॥


वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।

वेदः प्राचेतसादासीत् साक्षात् रामायणात्मना॥




"वेदाः यस्य परमतत्त्वस्य वर्णनं कुर्वन्ति तदेव श्रीमन्नरायणतत्त्वं श्रीमद्रामायणे श्रीरामरूपेण निरूपितम् अस्ति ।वेदवेद्यस्य परमपुरुषोत्तमस्य दशरथरूपे अवतारानन्तरं साक्षात्वेदराशिः एव वाल्मीकेः मुखात् श्रीमद्रामायणरूपे प्रकटः अभवत्, आस्तिकानाम् एतादृशी मान्यता चिरकालतः अस्ति, अतः श्रीमद्वाल्मीकीयरामायणस्य प्रतिष्ठा वेदतुल्येव अस्ति । विद्वांसः मन्यन्ते यत् श्रीमद्वाल्मीकीयरामायणम् अस्य भूलोकस्य प्रथमम् काव्यम् कथ्यते, अस्य प्रणेता वाल्मीकि अपि आदिकविनाम्ना प्रसिद्धोस्ति । अयं ग्रंथः सर्वेषां कृते पूजनीयः वर्तते। इयं सूक्ति अपि प्रसिद्धा अस्ति यत् रामायणस्य प्रत्येकम् अक्षरं महापातकस्य नाशकम् अस्ति :- " एकैकमक्षरं पुंसां महापातकनाशनम् ।"







रामायणे इक्ष्वाकुवंशप्रभवस्य मर्यादापुरुषोत्तमस्य श्रीरामस्य चरितं वर्णितम् अस्ति । महाकाव्येऽस्मिन् २४,००० श्लोकाः सन्ति, अतः अयं " चतुर्विंशतिसाहस्त्रीसंहिता " अपि कथ्यते । अत्र ध्यतव्यः अस्ति यत् गायत्रिमन्त्रे अपि चतुर्विंशति अक्षराणि एव सन्ति । अनुष्टुपछन्दस्य प्रथमः प्रयोगः अस्मिन्नेव महाकाव्ये अस्ति । महाकाव्येऽस्मिन् कथा सप्तकाण्डेषु विभक्ता अस्ति ; ते काण्डाः तेषु वर्णि्ताः कथाः च निम्नलिखिताः सन्ति :-




. बालकान्डम् - काण्डेऽस्मिन् रामकथायाः प्रारम्भः अस्ति । अत्र महर्षि वाल्मीकि महर्षिनारदं पृच्छति यत् साम्प्रतम् अस्मिन् लोके कः पुरुषः सर्वगुणसम्प्पनः मरयादपुरुषोत्तमः चास्ति । तस्य प्रश्नस्य उत्तरे महर्षिनारदः वाल्मीकीं संक्षेपेण सम्पूर्णा रामकथा श्रावयति । तदनन्तरं महर्षिवाल्मीकि स्नानार्तं तमसानदीतीरे स्वशिष्येण भरद्वाजेन सह गच्छति ; यत्र वने एकेन किरातेन क्रौञ्चमिथुनादेकः नरक्रौञ्चः हन्यते । तदनन्तरं क्रौञ्च्याः विलापं आर्तनादं च दृष्ट्वा क्रोधेन पीड़या वा कुपितः वाल्मीकिः तस्मै किराताय शापं ददाति :-




" मा निषाद प्रतिष्ठामत्वमगमः शाश्वती समा।

यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥ "


इतः एव श्लोकस्य आविर्भावः अस्ति । पुनः ब्रह्मेक्षया वाल्मीकिः अनुष्टुपछन्दे अस्य महाकाव्यस्य रचनायाः आरम्भं करोति ; ध्यानावस्थायाम् एव सः सर्वाषां घटनानां प्रत्यक्षं करोति ।बालकाण्डे राज्ञः दशरथस्य अयोध्यानगर्याः शोभायाः , सुशासनव्यवस्थायाः , रामादेः जन्मस्य , ताड़कावधस्य , रामविवाहस्य च कथाः वर्णिताः सन्ति । काण्डेऽस्मिन् ७७ सर्गाः सन्ति ।


२. अयोध्याकाण्डम् -
अयोध्याकाण्डे मर्यादापुरुषोत्तमस्य वनवासप्राप्तेः , सीतालक्षमणाभ्यां सह तस्य वनगमनस्य , पुत्रशोकपिहितस्य राजादशरथस्य मृत्योः , अरण्ये भरतस्य रामेण सह मेलनस्य च अतिेकरुणामयीकथाः वर्णिताः सन्ति । अस्मिन् काण्डे १११ सर्गाः सन्ति ।




. अरण्यकाण्डम् - अरण्यकाण्डे रामलक्षमणसीतायाः वनवासस्य , मुनिजनपीड़कानां राक्षसानां संहारस्य , सीताहरणस्य , रावण-जटायुसंवादस्य, सीताहरणात् विषादग्रस्तस्य श्रीरामस्य करुणविलापस्य , कबन्धवधस्य , शबर्याः सत्कारस्य च कथाः वर्णिताः सन्ति । अस्मिन् काण्डे ७५ सर्गाः सन्ति ।




. किष्किन्धाकाण्डम् - अस्मिन् काण्डे हनुमानेन सह श्रीरामस्य मेलनस्य , वानरराजसुग्रीवेन सह मेलनस्य , वालीवधस्य , अङ्गदसुग्रीवयोः अभिषेकस्य , वानरैः सीतायाः अन्वेषणस्य , सम्पातेः कथायाः , जाम्बवानेन हनुमतः प्रेरणस्यादेः च कथाः वर्णिताः सन्ति । अस्मिन् काण्डे ६७ सर्गाः सन्ति ।







५. सुन्दरकाण्डम् - सुन्दरकाण्डे वीरहनुमतः विशालसमुद्रलङ्घणस्य , अशोकवाटिकायां सीतया सह तस्य मेलनस्य , लङ्कादाहस्यादेश्च रमणीयं वर्णनं अस्ति । काण्डेऽस्मिन् ६८ सर्गाः सन्ति।







. युद्धकाण्डम् - युद्धकाण्डे रामसेनायाः युद्धस्य कृते सज्जायाः , सेतुबन्धस्य , विभीषणस्य , राम-रावणयुद्धस्य , रावणवधस्य , सीतायाः अग्निपरीक्षायाः , श्रीरामस्य अयोध्याप्रत्यागमनस्य , राज्याभिषेकस्यादेश्च कथाः वर्णिताः सन्ति ।



७. उत्तरकाण्डम्
- उत्तरकाण्डे श्रीरामदरबारस्य , सभायां ऋषीणाम् आगमनस्य , विश्रवामुनेः कथायाः , रावणस्य जीवनचरितस्य , हनुमतः कथायाः , शत्रुघ्नस्य राज्याभिषेकस्य , लवकुशयोः रामायणगायणस्य , सीतायाः रसातलप्रवेशस्य , श्रीरामस्य उत्तरवर्तीजीवनचर्यायाः , श्रीरामेण सह अयोध्यावासीनां परमधामगमनस्य , रामायणकाव्यस्य महात्म्यस्य च वर्णनम् अस्ति ।"करुण " अस्य महाकाव्यस्य प्रधानरसः अस्ति । रामायणस्य प्राशस्तये अयं श्लोकः निबद्दोस्ति :-




" यस्य शोकात् समुत्पन्नं श्लोकं ब्रह्माभिपूजति ।

विष्णोः पुँसः पुराणस्य मानुषस्यात्मरूपिणः॥ "









No comments:

Post a Comment