Wednesday, April 8, 2009

महाभारतम्







व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।

भूषणतयैव संज्ञा यदङ्किता भारती वहति ॥ (गोवर्धनाचर्यः)







रामायणं महाभारतञ्च अस्माकं जातीयइतिहासग्रन्थौ स्तः। भारतीयसभ्यतायाः भव्यरूपं एतयोःग्रन्थयोः यादृशः स्फुटति तादृशः नान्यत्रक्वचित् ।कृष्णद्वैपायनमहर्षिवेदव्यासविरचितमहाभारतम् परवर्ती साहित्यकाराणां कृतेउपजीव्यः अस्ति अस्मिन् महाकाव्ये केवलं कौरवपाण्डवयोः इतिहासवर्णनम् अस्ति, अपितु अस्माकं हिन्दुधर्मस्यसम्पूर्णचित्रणं विस्तारपूर्वकम् अत्र कृतम् अस्ति महाकविना वयं एतम् इतिहासग्रंथम् अस्माकं धर्मग्रंथः मन्यामहे , यस्यपठनं-पाठनं , श्रवण-मननं सर्वविध्या अस्माकं कृते कल्याणकारी अस्ति ।अस्य ग्रंथस्य सांस्कृतिकमूल्यम् अपि अल्पतरं नास्ति सत्यं तु इदम् अस्ति यत् केवलम् अनेन ग्रंथेन एव वयं भारतीयसंस्कृत्याः शुद्धस्वरूपस्य परिचयं प्राप्तुं शक्नुमः भारतीयसाहित्यस्य सर्वश्रेष्ठः ग्रंथः "श्रीमद्भागवद्गीता" अस्येव महाभारतग्रंथस्य अंशः मन्यते महत्वपूर्णग्रंथोऽयंभारतीयसाहित्यपरम्परायां पञ्चमवेदनाम्ना प्रसिद्धोस्ति




अस्मिन् ग्रंथे मुख्यतया कौरव-पाण्डवानां कथा वर्णिता अस्ति । ग्रंथो॓ऽयं अष्टादशपर्वेषु विभक्तोस्ति । एतस्य विकासस्य त्रयः क्रमिकस्वरूपाः मन्यन्ते - १. जय , २. भारतम् , ३. महाभारतम् । ग्रंथेऽस्मिन् अनेकाः कथा-उपकथाः , बहूनि आख्यानानि च सन्ति । अस्य परिशिष्टः भागः "हरिवंशम्" इति नाम्ना प्रसिद्धः अस्ति , यस्मिन् त्रयः सर्गाः सन्ति ।महाभारते अष्टादशपर्वेषु एकलक्षश्लोकाः निबद्धाः सन्ति , अतः अयं ग्रंथः शत्-साहस्त्रीसंहिता अपि कथ्यते । तानि पर्वाणि निम्नलिखितानि सन्ति :-




१. आदिपर्व :- आदिपर्वे चन्द्रवंशस्य विस्तृतेतिहासस्य , कौरव-पाण्डानां उत्पत्तेः च वर्णनम् अस्ति


. सभापर्व :- सभापर्वे द्यूतक्रीडायाः प्रसिद्धा कथा वर्णिता अस्ति ।


३. वनपर्व :- वनपर्वे पाण्डानां वनवासस्य कथा अस्ति ।


. विराटपर्व :- विराटपर्वे पाण्डवानाम् अज्ञातवासस्य कथा अस्ति ।

.उद्योगपर्व :- उद्योगपर्वे श्रीकृष्णस्य दूतरूपे कौरवानां सभायां गमनस्य, शांतये उद्योगस्य च कथा वर्णिता अस्ति ।


. भीष्मपर्व :- भीष्मपर्वे गीतायाः नीतिपूर्णः उपदेशः वर्णितः अस्ति ; युद्धस्य आरम्भस्य , भीष्मस्य शरशय्यापतनस्य कथा अपि वर्णिता अस्ति ।

७. द्रोणपर्व :- द्रोणपर्वे अभिमन्युवधस्य, पाण्डवानां द्रोणाचार्येन सह युद्धस्य , द्रोणवधस्य च कथाः वर्णिताः सन्ति ।


. कर्णपर्व :- कर्णपर्वे महारथिकर्णेन सह युद्धस्य , कर्णवधस्य च वर्णनम् अस्ति ।



. शल्यपर्व :- शल्यपर्वे शल्यस्य अध्यक्षतायां युद्धस्य , अन्ते तस्य वधस्य च वर्णनम् अस्ति।


१०.सौप्तिकपर्व :- सौप्तिकपर्वे अश्वत्थामा द्वारा सुसुप्तावस्थायां पान्डवपुत्राणां वधस्य कथा अस्ति ।



११. स्त्रीपर्व :- स्त्रीपर्वे स्त्रीणां विलापस्य करुणचित्रणम् अस्ति ।



१२. शान्तिपर्व:- शान्तिपर्वे भीष्मपितामहस्य युद्धिष्ठिरं प्रति मोक्षधर्मस्य , राजधर्मस्य च नीतिविषयकाः उपदेशाः वर्णिताः सन्ति ।



१३. अनुशासनपर्व :- अनुशासनपर्वे धर्मपूर्णाः नीतिपूर्णाश्च अनेकाः कथाः सन्ति ।



१४. अश्वमेघपर्व :- अश्वमेघपर्वे राज्ञः युद्धिष्ठिरस्य अश्वमेघयज्ञस्य वर्णनम् अस्ति ।



१५. आश्रमवासीपर्व :- आश्रमवासीपर्वे धृटराष्ट्र-गान्धार्यादेः वानप्रस्थाश्रमे प्रवेशस्य कथा अस्ति।



१६. मौसलपर्व :- मौसलपर्वे यदुवंशीनां मूसलेन विनाशस्य कथा वर्णिता अस्ति ।



१७. महाप्रस्थानिकपर्व :- महाप्रस्थानिकपर्वे पाण्डवानां हिमालययात्रायाः कथा अस्ति ।



१८. स्वर्गारोहनपर्व :- स्वर्गारोहनपर्वे पाण्डवानां स्वर्गगमनस्य कथा अस्ति ।




अस्मिन् ग्रंथे सत्यमेव उक्तम् अस्ति यत् :-




" धर्मे चार्थे च मोक्षे च भरतषेभः ।


यदिहास्ति तदन्यत्र यन्नेहास्ति तत् क्वचित॥ "


No comments:

Post a Comment